|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.193. अध्यायः 193
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ध्यानयोगकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-193-0x(5965)(72661)
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः॥ 12-193-1(72662)
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः॥ 12-193-2(72663)
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः।
अन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः॥ 12-193-3(72664)
निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमश्रिताः।
असङ्गीन्यविवादीनि मनः शान्तिकराणि च॥ 12-193-4(72665)
तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः।
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत॥ 12-193-5(72666)
चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि।
तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः॥ 12-193-6(72667)
शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत्।
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा॥ 12-193-7(72668)
घ्रेयाण्यपि च सर्वाणि जह्याद्राणेन योगवित्।
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्॥ 12-193-8(72669)
ततो मनसि संसृज्य पञ्चवर्ग विचक्षणः।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः॥ 12-193-9(72670)
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्।
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः॥ 12-193-10(72671)
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्।
एव ध्यानपथः पूर्वो मया समनुवर्णितः॥ 12-193-11(72672)
तस्य तत्पूर्वसंरुद्धमात्सषष्ठं मनोऽन्तरा।
स्फुरिष्यति समुद्धान्तं विद्युदम्बुधरे यथा॥ 12-193-12(72673)
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः।
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि॥ 12-193-13(72674)
समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति।
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत्॥ 12-193-14(72675)
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्॥ 12-193-15(72676)
विचारश्च विवेकश्च वितर्कश्चोपजायते।
मुनेः समादधानस्य प्रथमं ध्यानमादितः॥ 12-193-16(72677)
मनसा क्लिश्यमानस्तु समाधानं च कारयेत्।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्॥ 12-193-17(72678)
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः।
सहसा वारिणा सिक्ता न यान्ति परिभावनम्॥ 12-193-18(72679)
किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्।
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम्॥ 12-193-19(72680)
एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत्।
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति॥ 12-193-20(72681)
स्वयमेव मनश्चैवं पञ्चवर्गं च भारत।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति॥ 12-193-21(72682)
न तत्पुरुषकारेण न च दैवेन केनचित्।
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः॥ 12-193-22(72683)
सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि।
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्॥ ॥ 12-193-23(72684)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः॥ 193॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-193-3 स्वगावे पर्यवस्थिता इति झ. ध. पाठः॥ 12-193-10 ध्यानपथे इति ड. पाठः॥ 12-193-14 भ्रनति ज्ञानवर्त्मनीति ट. ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|